लिखिए अपनी भाषा में


आप यहाँ रोमन अक्षरों में हिंदी लिखिए वो अपने आप हिंदी फॉण्ट में बदल जायेंगे,
पूरा लिखने के बाद आप यहाँ से कॉपी कर कमेन्ट बौक्स में पेस्ट कर दें...

Monday, September 03, 2012

जालसूचिका (ब्‍लाग) निर्माणे किं-किमावश्‍यकमिति

जालसूचिका निर्माणाय कानिचन वस्‍तूनि आवश्‍यकानि अधोक्‍तानि सन्ति ।
स्‍थानकस्‍य (प्‍लेटफार्म) चयनम् (ब्‍लागर, वर्डप्रेस, जूमला इत्‍यादिषु कश्चित)
ईसंकेत: (ईमेल आई.डी.)
नामनिर्धारणम्
उद्देश्‍यम्
सूचिकासंकेत: इत्‍या‍दि
1. स्‍थानकस्‍य चयनम् - एतत् अतिमहत्‍वपूर्णं कार्यमस्ति जालसूचिकां निर्मातुम् । पूर्वं तु स्‍थानकस्‍य एव निश्‍चयं करणीयं भवति यस्‍योपरि आत्‍मन: जालसूचिका निर्मापनीया भवति । प्रायश: जालजगति ब्‍लागर एवं च वर्डप्रेस सर्वतोधिकप्रचलितस्‍थानकौ स्‍त: । तयो: अपि ब्‍लागर तकनीकिदृष्‍ट्या सरलमस्ति । अत: नूतनजना: ये तकनीकिज्ञानं तावत् न वहन्‍त: भवन्ति ते ब्‍लागर एव स्‍वीकुर्यु: ।

2. ईसंकेत: - ईसंकेत: इत्‍युक्‍ते विद्युतसंकेत: । एष: संकेत: स: भवति यत्र भवत: विद्युतपत्राणि आगच्‍छन्ति । अस्‍य प्रयोग: सम्‍प्रति बहुप्रचलित: अस्ति । सामान्‍यतया सर्वे जालचालका: एतस्मिन् विषये जानन्ति एव । सूचिकानिर्माणाय एतदपि अतिमहत्‍वपूर्णं भवति । अनेन माध्‍यमेन एव सूचिकास्‍थानकेषु पंजीयनं क्रियते ।

3. नामनिर्धारणम् - नाम एव सूचिकाया: परिचय: भवति । भवत: सूचिकाया: विषय: क: पुनश्‍च अनेन माध्‍यमेन भवान् समाजे किं प्रसा‍रितुं वांछति इति सर्वं नाम्‍ना एव ज्ञायते । अत: अभिधानस्‍य महती आवश्‍यकता । यथा भवान् संस्‍कृतप्रसारकार्याय सूचिकां निर्मापयति चेत् भवत: सूचिकाया: नाम संस्‍कृतप्रसारक:, संस्‍कृतशिक्षक:, संस्‍कृतकार्यकर्ता इत्‍यादि किमपि भवितुमर्हति । अत्र यदवधेयमस्ति तदस्ति तन्‍नाम एव चयनीयं यत् अन्‍यत्र न प्राप्‍येत । अनेन हानि: भवितुमर्हति । भवत: पाठका: अन्‍यत्र गन्‍तुं शक्‍नुवन्ति, अत: सावधानतया नामचयनं कुर्यात् ।

4. उद्देश्‍यम् - जालसूचिकानिर्माणात् पूर्वं अस्‍य निर्णयं कुर्यात् यत् अस्‍या: सूचिकाया: निर्माणं किमर्थं क्रियते । अस्‍य उद्देश्‍यं किमिति । उद्देश्‍येन विना सूचिकाया: अस्तित्‍वं नैव । यदि भवान् आत्‍मन: सूचिकायां किमपि एवमेव लिखति चेत् भवत: लेखाना: प्रभाव: नैव भवति । अत: एकमुद्देश्‍यं स्‍थाप्‍य तदनुसारं कार्यं करणीयम् । एतस्‍य उद्देश्‍यस्‍य विषये जालसूचिकायाम् अपि वर्णनं भवेत् ।

5. सूचिकासंकेत: - यथा अस्‍माकं गृहस्‍य कश्चित विशिष्‍ट: एव पत्रसंकेत: भवति येन माध्‍यमेन जना: अस्‍माकं गृहं सहजतया प्राप्‍नुवन्ति तद्वदेव अस्‍माकं सूचिकाया: अपि एक: विशिष्‍ट: संकेत: भवेत् अनेन जना: सहजतया अस्‍माकं सूचिकां प्राप्‍तुं शक्‍नुवन्ति । एषा सूचिका समूल्‍येन, निर्मूल्‍येन च द्विविधं भवति । प्रारम्‍भे तु निर्मूल्‍यकं संकेतमेव स्‍वीकुर्यात् । अनन्‍तरं यदा सूचिका वर्धते तदा समूल्‍यकं ईसंकेतं स्‍वीकर्तुं शक्‍यन्‍ते ।

No comments: